Sudarshan Gautam
रक्षोहागमलघ्वसन्देहा: प्रयोजनम् इति व्याकरणाध्ययनस्य प्रयोजनेषु 'रक्षा' वेदानां प्रथमम् । लोपागमवर्णविकारज्ञानद्वारैव वेदानां वास्तविकी रक्षा निगदिता । तज्ज्ञानं हि व्याकरणाधीनमिति व्याकरणस्योपकारकत्वं निर्बाधम् । वेदानां यागार्थकत्वात् प्रकृतशोधपत्रे श्रौतयागेषु व्याकरणोपयोगिता कथम्भावा? कुत्र कुत्र? इत्यादयो विषयाः विचार्यन्ते । लोपागमवर्णविकारज्ञानेन, ऊहज्ञानेन, शब्दसाधुत्वासाधुत्वविवेकेन श्रौतयागेषु के कति प्रभावा: सम्भाव्यन्ते तज्जन्या: लाभालाभाश्च के इति चर्चयिष्यते एवमेव व्याकरणं विना श्रौताङ्गीभूतानां मन्त्राणां विशेषत: प्रकृतिविकृतिभावापन्ने ऊहे स्वरूपं कीदृशं भवेत् इत्यादिकमपि । तद्यथा लोपागमवर्णविकारा:, लिङ्गविभक्तिविपरिणाम:, प्रत्ययनिबन्धनबोध:, स्वरनिबन्धनस्पष्टप्रतिपत्ति:, समासनिबन्धनसंशयापहार:, शब्दानां व्युत्पत्तिपूर्वकप्रयोगे एव अभ्युदय इत्यादयो विषया: चर्चयिष्यन्ते ।
Pages: 410-414 | 188 Views 77 Downloads